|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.233. अध्यायः 233
(अर्थार्जुनवनवासपर्व ॥ 15 ॥)
Mahabharata - Adi Parva - Chapter Topics
तस्करैः कस्यचिद्ब्राह्मणस्य गोहरणम्॥ 1 ॥
चोरितानां गवां प्रत्याजिहीर्षया धनुर्ग्रहणार्थं द्रौपदीयुधिष्ठिराधिष्ठिते आयुधागारे अर्जुनस्य प्रवेशः॥ 2 ॥
चोरेश्यः प्रत्याहृता गाः ब्राह्मणाय दत्त्वा यथासमयं अर्जुनस्य तीर्थयात्रा॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-233-0x(1264)(10103)
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः।
वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः॥ 1-233-1(10104)
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्।
बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी॥ 1-233-2(10105)
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः।
बभूव परमप्रीता नागैरिव सरस्वती॥ 1-233-3(10106)
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु।
व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः॥ 1-233-4(10107)
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते।
कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम॥ 1-233-5(10108)
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः।
आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान्॥ 1-233-6(10109)
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः।
प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः॥ 1-233-7(10110)
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते।
शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति॥ 1-233-8(10111)
अरक्षितारं राजानं बलिषद्भागहारिणम्।
तमाहुः सर्वलोकस्य समग्रं पापचारिणम्॥ 1-233-9(10112)
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते।
रोरूयमाणे च मयि क्रियतां हस्तधारणा॥ 1-233-10(10113)
वैशम्पायन उवाच। 1-233-11x(1265)
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः।
तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः॥ 1-233-11(10114)
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम्।
आयुधानि च यत्रासन्पाण्डवानां महात्मनां॥ 1-233-12(10115)
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः।
संप्रवेशाय चाशक्तो गमनाय च पाण्डवः॥ 1-233-13(10116)
तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः।
आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः॥ 1-233-14(10117)
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः।
अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः॥ 1-233-15(10118)
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः।
यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्॥ 1-233-16(10119)
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे।
प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्॥ 1-233-17(10120)
अनापृच्छय तु राजानं गते मयि न संशयः।
अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत्॥ 1-233-18(10121)
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम।
सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः॥ 1-233-19(10122)
अधर्मो वै महानस्तु वने वा मरणं मम।
शरीरस्य विनाशेन धर्म एव विशिष्यते॥ 1-233-20(10123)
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः।
अनुप्रविश्य राजानमापृच्छय च विशांपते॥ 1-233-21(10124)
`मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा।
अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः॥' 1-233-22(10125)
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत।
ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः॥ 1-233-23(10126)
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह।
यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव॥ 1-233-24(10127)
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी।
शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्॥ 1-233-25(10128)
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः।
ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये॥ 1-233-26(10129)
आजगाम पुरं वीरः सव्यसाची धनञ्जयः।
सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः॥ 1-233-27(10130)
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो।
समयः समतिक्रान्तो भवत्संदर्शने मया॥ 1-233-28(10131)
वनवासं गमिष्यामि समयो ह्येष नः कृतः।
इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम्॥ 1-233-29(10132)
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया।
युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्॥ 1-233-30(10133)
उवाच दीनो राजा च धनञ्जयमिदं वचः।
प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ॥ 1-233-31(10134)
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्।
सर्वं तदनुजानामि व्यलीकं न च मे हृदि॥ 1-233-32(10135)
गुरोरनुप्रवेशो हि नोपघातो यवीयसः।
यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः॥ 1-233-33(10136)
निवर्तस्व महाबाहो कुरुष्व वचनं मम।
न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता॥ 1-233-34(10137)
अर्जुन उवाच। 1-233-35x(1266)
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्।
न सत्याद्विचलिष्यामि सत्येनायुधमालभे॥ 1-233-35(10138)
वैशम्पायन उवाच। 1-233-36x(1267)
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः।
वने द्वादश मासांस्तु वासायानुजगाम ह॥ ॥ 1-233-36(10139)
इति श्रीमन्महाभारते आदिपर्वणि अर्जुनवनवासपर्वणि त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 233 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-233-3 नागैर्गजवधूरिव इति ङ. पाठः॥ 1-233-16 उपप्रेक्षणज उपेक्षाजन्यः॥ 1-233-17 अनास्तिक्यमास्तिक्याभावः॥ 1-233-30 सज्जमानया स्खलन्त्या॥ 1-233-36 मासांस्तु ब्रह्मचर्याय दीक्षितः इति ङ. पाठः॥ त्रयस्त्रिंशदधिकद्विशततमोऽध्यायः॥ 233 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|